Shri Datta Bhavsudharasa Stotra | श्री दत्त भावसुधारस स्तोत्र
दत्तात्रेयं परमसुखमयं वेदगेयं ह्यमेयं योगिध्येयं हृतनिजभयं स्वीकृतानेककायम् ।
दुष्टागम्यं विततविजयं देवदैत्यर्षिवन्द्यं वन्दे नित्यं विहितविनयं चाव्ययं भावगम्यम् ॥ १॥
दत्तात्रेय नमोऽस्तु ते भगवते पापक्षयं कुर्वते दारिद्र्यं हरते भयं शमयते कारुण्यमातन्वते ।
भक्तानुद्धरते शिवं च ददते सत्कीर्तिमातन्वते भूतान्द्रावयते वरं प्रददते श्रेयः पते सद्गते ॥ २॥
एकं सौभाग्यजनकं तारकं लोकनायकम् ।
विशोकं त्रातभजकं नमस्ये कामपूरकम् ॥ ३॥
नित्यं स्मरामि ते पादे हतखेदे सुखप्रदे ।
प्रदेहि मे शुद्धभावं भावं यो वारयेद्द्रुतम् ॥ ४॥
समस्तसम्पत्प्रदमार्तबंधुं समस्तकल्याणदमस्तबंधुम् ।
कारुण्यसिंधुं प्रणमामि दत्तं यः शोधयत्याशु मलीनचित्तम् ॥ ५॥
समस्तभूतांतरबाह्यवर्ती यश्चात्रिपुत्रो यतिचक्रवर्ती ।
सुकीर्तिसंव्याप्तदिगंतरालः स पातु मां निर्जितभक्तकालः ॥ ६॥
व्याध्याधिदारिद्र्यभयार्तिहर्ता स्वगुप्तयेऽनेकशरीरधर्ता
स्वदासभर्ता बहुधा विहर्ता कर्ताप्यकर्ता स्ववशोऽरिहर्ता ॥ ७॥
स चानसूयातनयोऽभवद्यो विष्णुः स्वयं भाविकरक्षणाय ।
गुणा यदीया म हि बुद्धिमद्भिर्गण्यंत आकल्पमपीह धात्रा ॥ ८॥
न यत्कटाक्षामृतवृष्टितोऽत्र तिष्ठन्ति तापाः सकलाः परत्र ।
यः सद्गतिं सम्प्रददाति भूमा स मेऽन्तरे तिष्ठतु दिव्यधामा ॥ ९॥
स त्वं प्रसीदात्रिसुतार्तिहारिन् दिगम्बर स्वीयमनोविहारिन् ।
दुष्टा लिपिर्या लिखितात्र धात्रा कार्या त्वया साऽतिशुभा विधात्रा ॥ १०॥
सर्वमंगलसंयुक्त सर्वैश्वर्यसमन्वित ।
प्रसन्ने त्वयि सर्वेशे किं केषां दुर्लभं कुह ॥ ११॥
हार्दांधतिमिरं हन्तुं शुद्धज्ञानप्रकाशक ।
त्वदंघ्रिनखमाणिक्यद्युतिरेवालमीश नः ॥ १२॥
स्वकृपार्द्रकटाक्षेण वीक्षसे चेत्सकृद्धि माम् ।
भविष्यामि कृतार्थोऽत्र पात्रं चापि स्थितेस्तव ॥ १३॥
क्व च मन्दो वराकोऽहं क्व भवान्भगवान्प्रभुः ।
अथापि भवदावेश भाग्यवानस्मि ते दृशा ॥ १४॥
विहितानि मया नाना पातकानि च यद्यपि ।
अथापि ते प्रसादेन पवित्रोऽहं न संशयः ॥ १५॥
स्वलीलया त्वं हि जनान्पुनासि तन्मे स्वलीला श्रवणं प्रयच्छ ।
तस्याः श्रुतेः सान्द्रविलोचनोऽहं पुनामि चात्मानमतीव देव ॥ १६॥
पुरतस्ते स्फुटं वच्मि दोषराशिरहं किल ।
दोषा ममामिताः पांसुवृष्टिबिन्दुसमा विभोः ॥ १७॥
पापीयसामहं मुख्यस्त्वं तु कारुणिकाग्रणीः ।
दयनीयो न हि क्वापि मदन्य इति भाति मे ॥ १८॥
ईदृशं मां विलोक्यापि कृपालो ते मनो यदि ।
न द्रवेत्तर्हि किं वाच्यमदृष्टं मे तवाग्रतः ॥ १९॥
त्वमेव सृष्टवान्सर्वान्दत्तात्रेय दयानिधे ।
वयं दीनतराः पुत्रास्तवाकल्पाः स्वरक्षणे ॥ २०॥
जयतु जयतु दत्तो देवसङ्घाभिपूज्यो जयतु जयतु भद्रो भद्रदो भावुकेज्यः ।
जयतु जयतु नित्यो निर्मलज्ञानवेद्यो जयतु जयतु सत्यः सत्यसंधोऽनवद्यः ॥ २१॥
यद्यहं तव पुत्रः स्यां पिता माता त्वमेव मे ।
दयास्तन्यामृतेनाशु मातस्त्वमभिषिञ्च माम् ॥ २२॥
ईशाभिन्ननिमित्तोपादनात्स्रष्टुरस्य ते ।
जगद्योने सुतो नाहं दत्त मां परिपाह्यतः ॥ २३॥
तव वत्सस्य मे वाक्यं सूक्तं वाऽसूक्तमप्यहो ।
क्षन्तव्यं मेऽपराधश्च त्वत्तोऽन्या न गतिर्हि मे ॥ २४॥
अनन्यगतिकस्यास्य बालस्य मम ते पितः ।
न सर्वथोचितोपेक्षा दोषाणां गणनापि च ॥ २५॥
अज्ञानित्वादकल्पत्वाद्दोषा मम पदे पदे ।
भवन्ति किं करोमीश करुणावरुणालय ॥ २६॥
अथापि मेऽपराधैश्चेदायास्यन्तर्विषादताम् ।
पदाहतार्भकेणापि माता रुष्यति किं भुवि ॥ २७॥
रङ्कमङ्कगतं दीनं ताडयन्तं पदेन च ।
माता त्यजति किं बालं प्रत्युताश्वासयत्यहो ॥ २८॥
तादृशं मामकल्पं चेन्नाश्वासयसि भो प्रभो ।
अहहा बत दीनस्य त्वां विना मम का गतिः ॥ २९॥
शिशुर्नायं शठः स्वार्थीत्यपि नायातु तेऽन्तरम् ।
लोके हि क्षुधिता बालाः स्मरन्ति निजमातरम् ॥ ३०॥
जीवनं भिन्नयोः पित्रोर्लोक एकतराच्छिशोः ।
त्वं तूभयं दत्त मम माऽस्तु निर्दयता मयि ॥ ३१॥
स्तवनेन न शक्तोऽस्मि त्वां प्रसादयितुं प्रभो ।
ब्रह्माद्याश्चकितास्तत्र मन्दोऽहं शक्नुयां कथम् ॥ ३२॥
दत्त त्वद्बालवाक्यानि सूक्तासूक्तानि यानि च ।
तानि स्वीकुरु सर्वज्ञ दयालो भक्तभावन ॥ ३३॥
ये त्वा शरणमापन्नाः कृतार्था अभवन्हि ते ।
एतद्विचार्य मनसा दत्त त्वां शरणं गतः ॥ ३४॥
त्वन्निष्ठास्त्वत्परा भक्तास्तव ते सुखभागिनः ।
इति शास्त्रानुरोधेन दत्त त्वां शरणं गतः ॥ ३५॥
स्वभक्ताननुगृह्णाति भगवान् भक्तवत्सलः ।
इति सञ्चित्य सञ्चित्य कथञ्चिद्धारयाम्यसून् ॥ ३६॥
त्वद्भक्तस्त्वदधीनोऽहमस्मि तुभ्यं समर्पितम् ।
तनुं मनो धनं चापि कृपां कुरु ममोपरि ॥ ३७॥
त्वयि भक्तिं नैव जाने न जानेऽर्चनपद्धतिम् ।
कृतं न दानधर्मादि प्रसादं कुरु केवलम् ॥ ३८॥
ब्रह्मचर्यादि नाचीर्णं नाधीता विधितः श्रुतिः ।
गार्हस्थ्यं विधिना दत्त न कृतं तत्प्रसीद मे ॥ ३९॥
न साधुसङ्गमो मेऽस्ति न कृतं वृद्धसेवनम् ।
न शास्त्रशासनं दत्त केवलं त्वं दयां कुरु ॥ ४०॥
ज्ञातेऽपि धर्मे नहि मे प्रवृत्ति: ज्ञातेऽप्यधर्मे न ततो निवृत्तिः |
श्रीदत्तनाथेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ४१॥
कृतिः सेवा गतिर्यात्रा स्मृतिश्चिन्ता स्तुतिर्वचः ।
भवन्तु दत्त मे नित्यं त्वदीया एव सर्वथा ॥ ४२॥
प्रतिज्ञा ते न भक्ता मे नश्यन्तीति सुनिश्चितम् ।
श्रीदत्त चित्त आनीय जीवनं धारयाम्यहम् ॥ ४३॥
दत्तोऽहं ते मयेतीश आत्मदानेन योऽभवत् ।
अनसूयात्रिपुत्रः स श्रीदत्तः शरणं मम ॥ ४४॥
कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः ।
अव्याहतगतिं चासौ श्रीदत्तः शरणं मम ॥ ४५॥
आन्वीक्षिकीमलर्काय विकल्पत्यागपूर्वकम् ।
योऽदादाचार्यवर्यः स श्रीदत्तः शरणं मम ॥ ४६॥
चतुर्विंशतिगुर्वाप्तं हेयोपादेयलक्षणम् ।
ज्ञानं यो यदवेऽदात्स श्रीदत्तः शरणं मम ॥ ४७॥
मदालसागर्भरत्नालर्काय प्राहिणोच्च यः ।
योगपूर्वात्मविज्ञानं श्रीदत्तः शरणं मम ॥ ४८॥
आयुराजाय सत्पुत्रं सेवाधर्मपराय यः ।
प्रददौ सद्गतिं चैष श्रीदत्तः शरणं मम ॥ ४९॥
लोकोपकृतये विष्णुदत्तविप्राय योऽर्पयत् ।
विद्यास्तच्छ्राद्धभुग्यः स श्रीदत्तः शरणं मम ॥ ५०॥
भर्त्रा सहानुगमनविधिं यः प्राह सर्ववित् ।
राममात्रे रेणुकायै श्रीदत्तः शरणं मम ॥ ५१॥
समूलमाह्निकं कर्म सोमकीर्तिनृपाय यः ।
मोक्षोपयोगि सकलं श्रीदत्तः शरणं मम ॥ ५२॥
नामधारक भक्ताय निर्विण्णाय व्यदर्शयत् ।
तुष्टः स्तुत्या स्वरूपं स श्रीदत्तः शरणं मम ॥ ५३॥
यः कलिब्रह्मसंवादमिषेणाह युगस्थितीः ।
गुरुसेवां च सिद्धाऽऽस्याच्छ्रीदत्तः शरणं मम ॥ ५४॥
दुर्वासःशापमाश्रुत्य योऽम्बरीषार्थमव्ययः ।
नानावतारधारी स श्रीदत्तः शरणं मम ॥ ५५॥
अनसूयासतीदुग्धास्वादायेव त्रिरूपतः ।
अवातरदजो योऽपि श्रीदत्तः शरणं मम ॥ ५६॥
पीठापुरे यः सुमतिब्राह्मणीभक्तितोऽभवत् ।
श्रीपादस्तत्सुतस्त्राता श्रीदत्तः शरणं मम ॥ ५७॥
प्रकाशयामास सिद्धमुखात्स्थापनमादितः ।
महाबलेश्वरस्यैष श्रीदत्तः शरणं मम ॥ ५८॥
चण्डाल्यपि यतो मुक्ता गोकर्णे तत्र योऽवसत् ।
लिङ्गतीर्थमये त्र्यब्दं श्रीदत्तः शरणं मम ॥ ५९॥
कृष्णाद्वीपे कुरुपुरे कुपुत्रं जननीयुतम् ।
यो हि मृत्योरपाच्छ्रीपाच्छ्रीदत्तः शरणं मम ॥ ६०॥
रजकायापि दास्यन्यो राज्यं कुरुपुरे प्रभुः ।
तिरोऽभूदज्ञदृष्ट्या स श्रीदत्तः शरणं मम ॥ ६१॥
विश्वासघातिनश्चोरान्स्वभक्तघ्नान्निहत्य यः ।
जीवयामास भक्तं स श्रीदत्तः शरणं मम ॥ ६२॥
करञ्जनगरेऽम्बायाः प्रदोषव्रतसिद्धये ।
योऽभूत्सुतो नृहर्याख्यः श्रीदत्तः शरणं मम ॥ ६३॥
मूको भूत्वा व्रतात्पश्चाद्वदन्वेदान्स्वमातरम् ।
प्रव्रजन् बोधयामास श्रीदत्तः शरणं मम ॥ ६४॥
काशीवासी स संन्यासी निराशीष्ट्वप्रदो वृषम् ।
वैदिकं विशदीकुर्वन् श्रीदत्तः शरणं मम ॥ ६५॥
भूमिं प्रदक्षिणीकृत्य सशिष्यो वीक्ष्य मातरम् ।
जहार द्विजशूलार्तिं श्रीदत्तः शरणं मम ॥ ६६॥
शिष्यत्वेनोररीकृत्य सायंदेवं ररक्ष यः ॥
भीते च क्रूरयवनाच्छ्रीदत्तः शरणं मम ॥ ६७॥
प्रेरयत्तीर्थयात्रायै तीर्थरूपोऽपि यः स्वकान् ।
सम्यग्धर्ममुपादिश्य श्रीदत्तः शरणं मम ॥ ६८॥
सशिष्यः पर्यलीक्षेत्रे वैद्यनाथसमीपतः ।
स्थित्वोद्दधार मूढो यः श्रीदत्तः शरणं मम ॥ ६९॥
विद्वत्सुतमविद्यं यो आगतं लोकनिन्दितम् ।
छिन्नजिह्वं बुधं चक्रे श्रीदत्तः शरणं मम ॥ ७०॥
नृसिंहवाटिकास्थो यः प्रददौ शाकभुङ्-निधिम् ।
दरिद्रब्राह्मणायासौ श्रीदत्तः शरणं मम ॥ ७१॥
भक्ताय त्रिस्थलीयात्रां दर्शयामास यः क्षणात् ।
चकार वरदं क्षेत्रं स श्रीदत्तः शरणं मम ॥ ७२॥
प्रेतार्तिं वारयित्वा यो ब्राह्मण्यै भक्तिभावितः ।
ददौ पुत्रौ स गतिदः श्रीदत्तः शरणं मम ॥ ७३॥
तत्त्वं यो मृतपुत्रायै बोधयित्वाप्यजीवयत् ।
मृतं कल्पद्रुमस्थः स श्रीदत्तः शरणं मम ॥ ७४॥
दोहयामास भिक्षार्थं यो वन्ध्यां महिषीं प्रभुः ।
दारिद्र्यदावदावः स श्रीदत्तः शरणं मम ॥ ७५॥
राजप्रार्थित एत्यास्थान्मठे यो गाणगापुरे ।
ब्रह्मरक्षः समुद्धर्ता श्रीदत्तः शरणं मम ॥ ७६॥
विश्वरूपं निन्दकाय शिबिकास्थः स्वलङ्कृतः ।
गर्वहा दर्शयद्यः स श्रीदत्तः शरणं मम ॥ ७७॥
त्रिविक्रमेण चानीतौ गर्वितौ ब्राह्मणद्विषौ ।
बोधयामास तौ यः स श्रीदत्तः शरणं मम ॥ ७८॥
उक्त्वा चतुर्वेदशाखातदङ्गादिकमीश्वरः ।
विप्रगर्वहरो यः स श्रीदत्तः शरणं मम ॥ ७९॥
सप्तजन्मविदं सप्तरेखोल्लङ्घनतो ददौ ।
यो हीनाय श्रुतिस्फूर्तिः श्रीदत्तः शरणं मम ॥ ८०॥
त्रिविक्रमायाह कर्मगतिं दत्तविदा पुनः ।
वियुक्तं पतितं चक्रे श्रीदत्तः शरणं मम ॥ ८१॥
रक्षसे वामदेवेन भस्ममाहात्म्यमुद्गतिम् ।
उक्तां त्रिविक्रमायाह श्रीदत्तः शरणं मम ॥ ८२॥
गोपीनाथसुतो रुग्णो मृतस्तत्स्त्री शुशोच ताम् ।
बोधयामास यो योगी श्रीदत्तः शरणं मम ॥ ८३॥
गुर्वगस्त्यर्षिसंवादरूपं स्त्रीधर्ममाह यः ।
रूपान्तरेण स प्राज्ञः श्रीदत्तः शरणं मम ॥ ८४॥
विधवाधर्ममादिश्यानुगमं चाक्षभस्मदः ।
अजीवयन्मृतं विप्रं श्रीदत्तः शरणं मम ॥ ८५॥
वेश्यासत्यै तु रुद्राक्षमाहात्म्ययुतमीट्-कृतम् ।
प्रसादं प्राह यः सत्यै श्रीदत्तः शरणं मम ॥ ८६॥
शतरुद्रीयमाहात्म्यं मृतराट् सुतजीवनम् ।
सत्यै शशंस स गुरुः श्रीदत्तः शरणं मम ॥ ८७॥
कचाख्यानं स्त्रियो मंत्रानर्हतार्थसुभाग्यदम् ।
सोमव्रतं च यः प्राह श्रीदत्तः शरणं मम ॥ ८८॥
ब्राह्मण्या दुःस्वभावं यो निवार्याह्निकमुत्तमम् ।
शशंस ब्राह्मणायासौ श्रीदत्तः शरणं मम ॥ ८९॥
गार्हस्थधर्मं विप्राय प्रत्यवायजिहासया ।
क्रममुक्त्यै य ऊचे स श्रीदत्तः शरणं मम ॥ ९०॥
त्रिपुंपर्याप्तपाकेन भोजयामास यो नृणाम् ।
सिद्धश्चतुःसहस्राणि श्रीदत्तः शरणं मम ॥ ९१॥
अश्वत्थसेवामादिश्य पुत्रौ योऽदात्फलप्रदः ।
चित्रकृद्-वृद्धवन्ध्यायै श्रीदत्तः शरणं मम ॥ ९२॥
कारयित्वा शुष्ककाष्ठसेवां तद्-वृक्षतां नयन् ।
विप्रकुष्ठं जहारासौ श्रीदत्तः शरणं मम ॥ ९३॥
भजन्तं कष्टतोऽप्याह सायंदेवं परीक्ष्य यः ।
गुरुसेवाविधानं स श्रीदत्तः शरणं मम ॥ ९४॥
शिवतोषकरीं काशीयात्रां भक्ताय योऽवदत् ।
सविधिं विहितां त्वष्ट्रा श्रीदत्तः शरणं मम ॥ ९५॥
कौण्डिण्यधर्मविहितमनंतव्रतमाह यः ।
कारयामास तद्योऽपि श्रीदत्तः शरणं मम ॥ ९६॥
श्रीशैलं तंतुकायासौ योगगत्या व्यदर्शयत् ।
शिवरात्रिव्रताहे स श्रीदत्तः शरणं मम ॥ ९७॥
ज्ञापयित्वाप्यर्मत्यत्वं स्वस्य दृष्ट्या चकार यः ।
विकुष्ठं नन्दिशर्माणं श्रीदत्तः शरणं मम ॥ ९८॥
नरकेसरिणे स्वप्ने स्वं कल्लेश्वरलिङ्गगम् ।
दर्शयित्वानुजग्राह श्रीदत्तः शरणं मम ॥ ९९॥
अष्टमूर्तिधरोऽप्यष्टग्रामगो भक्तवत्सलः ।
दीपावल्युत्सवेऽभूत्स श्रीदत्तः शरणं मम ॥ १००॥
अपक्वं छेदयित्वापि क्षेत्रे शतगुणं ततः ।
धान्यं शूद्राय योऽदात्स श्रीदत्तः शरणं मम ॥ १०१॥
गाणगापुरके क्षेत्रे योऽष्टतीर्थान्यदर्शयत् ।
भक्तेभ्यो भीमरथ्यां स श्रीदत्तः शरणं मम ॥ १०२॥
पूर्वदत्तवरायादाद्राज्यं स्फोटकरुग्घरः ।
म्लेच्छाय दृष्टिं चेष्टं स श्रीदत्तः शरणं मम ॥ १०३॥
श्रीशैलयात्रामिषेण वरदः पुष्पपीठगः ।
कलौ तिरोऽभवद्यः स श्रीदत्तः शरणं मम ॥ १०४॥
निद्रामातृपुरेऽस्य सह्यशिखरे पोठं मिमंक्षापुरे काश्याख्ये करहाटकेऽर्घ्यमवरे भिक्षास्य कोलापुरे ।
पाञ्चाले भुजिरस्य विठ्ठलपुरे पत्रं विचित्रं पुरे गांधर्वे युजिराचमः कुरुपुरे दूरे स्मृतो नान्तरे ॥ १०५॥
अमलकमलवक्त्रः पद्मपत्राभनेत्रः परविरतिकलत्रः सर्वथा यः स्वतन्त्रः ।
स च परमपवित्रः सत्कमण्डल्वमत्रः परमरुचिरगात्रो योऽनसूयात्रिपुत्रः ॥ १०६॥
नमस्ते समस्तेष्टदात्रे विधात्रे नमस्ते समस्तेडिताघौघहर्त्रे ।
नमस्ते समस्तेङ्गितज्ञाय भर्त्रे नमस्ते समस्तेष्टकर्त्रेऽकहर्त्रे ॥ १०७॥
नमो नमस्तेऽस्तु पुरान्तकाय नमो नमस्तेऽस्त्वसुरान्तकाय ।
नमो नमस्तेऽस्तु खलान्तकाय दत्ताय भक्तार्तिविनाशकाय ॥ १०८॥
श्रीदत्तदेवेश्वर मे प्रसीद श्रीदत्तसर्वेश्वर मे प्रसीद ।
प्रसीद योगेश्वर देहि योगं त्वदीयभक्तेः कुरु मा वियोगम् ॥ १०९॥
श्रीदत्तो जयतीह दत्तमनिशं ध्यायामि दत्तेन मे हृच्छुद्धिर्विहिता ततोऽस्तु सततं दत्ताय तुभ्यं नमः ।
दत्तान्नास्ति परायणं श्रुतिमतं दत्तस्य दासोऽस्म्यहम् । श्रीदत्ते परभक्तिरस्तु मम भो दत्त प्रसीदेश्वर ॥ ११०॥
॥ इति श्री परमहंस परिव्राजकाचार्य श्री श्री श्री वासुदेवानन्द सरस्वती यति वरेण्य विरचितं श्री दत्त भावसुधारस स्तोत्रं सम्पूर्णम् ॥